|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.156. अध्यायः 156
Mahabharata - Udyoga Parva - Chapter Topics
दुर्योधनेन भीष्मंप्रति सैनापत्यस्वीकारप्रार्थना ॥ 1 ॥ भीष्मेण समयप्रतिज्ञाकरणपूर्वकं सैनापत्याङ्गीकारः ॥ 2 ॥ दुर्योधनेन भीष्मस्य सैनापत्येऽभिषेचनपूर्वकं सेनाभिः सह कुरुक्षेत्रगमनम् ॥ 3 ॥

Mahabharata - Udyoga Parva - Chapter Text
5-156-0(37130)
वैशम्पायन उवाच। 5-156-0x(3842)
ततः शान्तनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः।
सह सर्वैर्महीपालैरिदं वचनमब्रवीत्॥ 5-156-1(37131)
ऋते सेनाप्रणेतारं पृतना सुमहत्यपि ।
दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा ॥ 5-156-2(37132)
नहि जातु द्वयोर्बुद्धिः समा भवति कर्हिचित् ।
शौर्यं च वलनेतॄणां स्पर्धते च परस्परम् ॥ 5-156-3(37133)
श्रूयते च महाप्राज्ञ हैहयानमितौजसः ।
अभ्ययुर्ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः ॥ 5-156-4(37134)
तानभ्ययुस्तदा वैश्याः शूद्राश्चैव पितामह ।
एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः ॥ 5-156-5(37135)
ते स्म युद्धे प्रभज्यन्ते त्रयो वर्णाः पुनः पुनः ।
क्षत्रियाश्च जयन्त्येव बहुलं चैकतो बलम् ॥ 5-156-6(37136)
ततस्ते क्षत्रियानेव पप्रच्छुर्द्विचसत्तमाः ।
तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह ॥ 5-156-7(37137)
वयमेकस्य श्रृणुमो महाबुद्धिमतो रणे ।
भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः ॥ 5-156-8(37138)
ततस्ते ब्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम्।
नये सुकुशलं शूरमजयन्क्षत्रियांस्ततः ॥ 5-156-9(37139)
एवं ये कुशलं शूरं हितेप्सितमकल्पषम्।
सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून् ॥ 5-156-10(37140)
भवानुशनसा तुल्यो हितैषी च सदा मम।
असंहार्थः स्थितो धर्मे स नः सेनापतिर्भव ॥ 5-156-11(37141)
रश्मीवतामिवादित्यो वीरुधामिव चन्द्रमाः ।
कुबेर इव यक्षाणां देवानामिव वासवः ॥ 5-156-12(37142)
पर्वतानां यथा मेरुः सुपर्णः पक्षिणां यथा।
कुमार इव देवानां वसूनामिव हव्यवाट् ॥ 5-156-13(37143)
भवता हि वयं गुप्ताः शत्रेणेव दिवौकसः ।
अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम् ॥ 5-156-14(37144)
प्रयातु नो भवानग्रे देवानामिव पावकिः ।
वयं त्वामनुयास्यामः सौरभेया इवर्षभम् ॥ 5-156-15(37145)
भीष्म उवाच। a6-156-16x(3843)
एवमेतन्महाबाहो यथा वदसि भारत।
यथैव हि भवन्तो मे तथैव मम पाण्डवाः ॥ 5-156-16(37146)
अपि चैव मया श्रोयो वाच्यं तेषां नराधिप ।
संयोद्धव्यं तवार्थाय यथा मे समयः कृतः ॥ 5-156-17(37147)
न तु पश्यामि योद्धारमात्मनः सदृशं भुवि ।
ऋते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनञ्जयात् ॥ 5-156-18(37148)
स हि वेद महाबुद्धिर्दिव्यान्यस्त्राण्यनेकशः ।
न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः ॥ 5-156-19(37149)
अहं स च क्षणेनैव निर्मनुष्यमिदं जगत्।
कुर्यावास्त्रबलेनैव ससुरासुरराक्षसम् ॥ 5-156-20(37150)
न त्वेवोत्सादनीया मे पाण्डोः पुत्रा जनाधिप ।
तस्माद्योधान्हनिष्यामि प्रयोगेणायुतं सदा ॥ 5-156-21(37151)
एवमेषां फरिष्यामि निधनं कुरुनन्दन ।
न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे ॥ 5-156-22(37152)
सेनापतिस्त्वहं राजन्समयेनापरेण ते।
भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि ॥ 5-156-23(37153)
कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते ।
स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे ॥ 5-156-24(37154)
कर्ण उवाच। 5-156-25x(3844)
नाहं जीवति गाङ्गेये राजन्योत्स्ये कथंचन।
हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना ॥ 5-156-25(37155)
वैशम्पायन उवाच। 5-156-26x(3845)
ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम्।
धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत ॥ 5-156-26(37156)
ततो भेरीश्च शङ्खांश्च शतशोऽथ सहस्रशः।
वादयामासुव्यग्रा वादका राजशासनात् ॥ 5-156-27(37157)
सिंहनादाश्च विविधा वाहनानां च निःस्वनाः ॥ 5-156-28(37158)
निर्घार्ताः पृथिवीकम्पा गजबृंहितनिःस्वनाः।
आसंश्च सर्वयोधानां पातयन्तो मनांस्युत ॥ 5-156-29(37159)
वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे।
शिवाश्च भयवेदिन्यो नेदुर्दीप्ततरा भृशम् ॥ 5-156-30(37160)
सैनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान् ।
तदैतान्युग्ररूपाणि बभूवुः शतशो नृप ॥ 5-156-31(37161)
ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम् ।
वाचयित्वा द्विजश्रेष्ठान्गोभिर्निष्कैश्च भूरिशः ॥ 5-156-32(37162)
वर्धमानो जयाशीर्भिर्निर्ययौ सैनिकैर्वृतः।
आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा ॥ 5-156-33(37163)
स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह ॥ 5-156-34(37164)
परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः ।
शिबिरं मापयामास समे देशे जनाधिप ॥ 5-156-35(37165)
मधुरानूषरे देशे प्रभूतयवसेन्धने।
यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ ॥ ॥ 5-156-36(37166)
इति श्रीमन्महाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि षट्पञ्चाशदधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-156-15 पावकिः कार्तिकेयः ॥ 5-156-19 विवृतो विस्पष्टो भूत्वेत्यर्थः ॥ 5-156-20 निर्मनुष्यं निर्जनम् ॥ 5-156-21 सदा प्रत्यहम् ॥ 5-156-29 पातयन्तः मूर्च्छितानि कुर्वन्तः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|